वांछित मन्त्र चुनें

द्र॒वि॒णो॒दा द्रवि॑णसो॒ ग्राव॑हस्तासो अध्व॒रे। य॒ज्ञेषु॑ दे॒वमी॑ळते॥

अंग्रेज़ी लिप्यंतरण

draviṇodā draviṇaso grāvahastāso adhvare | yajñeṣu devam īḻate ||

मन्त्र उच्चारण
पद पाठ

द्र॒वि॒णः॒ऽदाः। द्रवि॑णसः। ग्राव॑ऽहस्तासः। अ॒ध्व॒रे। य॒ज्ञेषु॑। दे॒वम्। ई॒ळ॒ते॒॥

ऋग्वेद » मण्डल:1» सूक्त:15» मन्त्र:7 | अष्टक:1» अध्याय:1» वर्ग:29» मन्त्र:1 | मण्डल:1» अनुवाक:4» मन्त्र:7


बार पढ़ा गया

स्वामी दयानन्द सरस्वती

फिर अगले मन्त्र में ईश्वर और भौतिक अग्नि के गुणों का उपदेश किया है-

पदार्थान्वयभाषाः - (द्रविणोदाः) जो विद्या बल राज्य और धनादि पदार्थों का देने और दिव्य गुणवाला परमेश्वर तथा उत्तम धन आदि पदार्थ देने और दिव्यगुणवाला भौतिक अग्नि है, जिस (देवम्) देव को (ग्रावहस्तासः) स्तुति-समूह, ग्रहण वा हनन और पत्थर आदि यज्ञ सिद्ध करनेहारे शिल्पविद्या के पदार्थ हाथ में हैं, जिनके ऐसे जो (द्रविणसः) यज्ञ करनेवाले वा द्रव्यसम्पादक विद्वान् हैं, वे (अध्वरे) अनुष्ठान करने योग्य क्रियासाध्य हिंसा के अयोग्य और (यज्ञेषु) अग्निहोत्र आदि अश्वमेधपर्य्यन्त वा शिल्पविद्यामय यज्ञों में (ईळते) पूजन वा उसके गुणों की खोज करके संयुक्त करते हैं, वे ही मनुष्य सदा आनन्दयुक्त रहते हैं॥७॥
भावार्थभाषाः - इस मन्त्र में श्लेषालङ्कार है। सब मनुष्यों को सब कर्म, उपासना तथा ज्ञानकाण्ड यज्ञों में परमेश्वर ही की पूजा तथा भौतिक अग्नि होम वा शिल्पादि कामों में अच्छी प्रकार संयुक्त करने योग्य है॥७॥
बार पढ़ा गया

स्वामी दयानन्द सरस्वती

पुनरीश्वरभौतिकगुणा उपदिश्यन्ते।

अन्वय:

यो द्रविणोदा देवः परमेश्वरो भौतिको वास्ति, यं देवं ग्रावहस्तासो द्रविणस ऋत्विजोऽध्वरे यज्ञेष्वीळते पूजयन्त्यध्येष्य योजयन्ति वा, तमुपास्योपयुज्य मनुष्या एव सदानन्दिता भवन्ति॥७॥

पदार्थान्वयभाषाः - (द्रविणोदाः) द्रविणांसि विद्याबलराज्यधनानि ददातीति स परमेश्वरो भौतिको वा। द्रविणमिति बलनामसु पठितम्। (निघं०२.९) द्रविणोदा इति पदनामसु पठितम्। (निघं०५.२) द्रविणं करोति द्रविणति, अस्मात् सर्वधातुभ्योऽसुन् इत्युसुन्प्रत्ययः। तद्ददातीति निरुक्त्या पदनामसु पठितत्वाज्ज्ञानस्वरूपत्वादीश्वरो ज्ञानक्रियाहेतुत्वादग्न्यादयश्च गृह्यन्ते। द्रूयन्ते प्राप्यन्ते यानि तानि द्रविणानि। द्रुदक्षिभ्यामिनन्। (उणा०२.४९) अनेन ‘द्रु’धातोरिनन् प्रत्ययः। (द्रविणसः) यज्ञकर्त्तारः द्रविणसम्पादकाः। (ग्रावहस्तासः) ग्रावा स्तुतिसमूहो ग्रहणं हननं वा ग्रावाणः पाषाणादयो यज्ञशिल्पविद्यासिद्धिहेतवो हस्तेषु येषां ते। ग्रावाणो हन्तेर्वा गृणातेर्वा गृह्णातेर्वा। (निरु०९.८) (अध्वरे) अनुष्ठातव्ये क्रियासाध्ये यज्ञे (यज्ञेषु) अग्निहोत्राद्यश्वमेधान्तेषु शिल्पविद्यामयेषु वा (देवम्) दिव्यगुणवन्तम् (ईळते) स्तुवन्ति अध्येषन्ति वा। एतद्विषयान् मन्त्रान् यास्कमुनिरेवं व्याख्यातवान्-द्रविणोदाः कस्मात्? धनं द्रविणमुच्यते यदेनदभिद्रवन्ति बलं वा द्रविणं यदेनेनाभिद्रवन्ति तस्य दाता द्रविणोदास्तस्यैषा भवति-‘द्रविणोदा द्रवि०’। द्रविणोदा यस्त्वं द्रविणस इति द्रविणसादिन इति वा द्रविणसानिन इति वा द्रविणसस्तस्मात् पिबत्विति वा। यज्ञेषु देवमीडते। याचन्ति स्तुवन्ति वर्धयन्ति पूज्यन्तीति वा।तत्को द्रविणोदाः? इन्द्र इति क्रौष्टुकिः, स बलधनयोर्दातृतमस्तस्य च सर्वा बलकृतिरोजसो जातमुतमन्य एनमिति चाहाऽथाप्यग्निं द्राविणोदसमाहैष पुनरेतस्माज्जायते। यो अश्मनोरन्तरग्निं जजानेत्यपि निगमो भवत्यथाप्यृतुयाजेषु द्राविणोदसाः प्रवादा भवन्ति तेषां पुनः पात्रस्येन्द्रपानमिति भवत्यथाप्येनं सोमपानेन स्तौत्यथाप्याह। द्रविणोदाः पिबतु द्राविणोदस इत्ययमेवाग्निर्द्रविणोदा इति शाकपूणिराग्नेयेष्वेव हि सूक्तेषु द्राविणोदसाः प्रवादा भवन्ति। देवा अग्निं धारयन् द्रविणोदामित्यपि निगमो भवति। यथो एतत्स बलधनयोर्दातृतम इति सर्वासु देवतास्वैश्वर्य्यं विद्यते यथो एतदोजसो जातमुतमन्य एनमिति चाहेत्ययमप्यग्निरोजसा बलेन मथ्यमानो जायते तस्मादेनमाह सहसस्पुत्रं सहसः सूनुं सहसो यहुं यथो एतदग्निं द्राविणोदसमाहेत्यृत्विजोऽत्र द्रविणोदस उच्यन्ते हविषो दातारस्ते चैनं जनयन्ति। ऋषीणां पुत्रो अधिराज एष इत्यपि निगमो भवति। यथो एतत्तेषां पुनः पात्रस्येन्द्रपानमिति भवतीति? भक्तिमात्रं तद्भवति। यथा वायव्यानीति। सर्वेषां सोमपात्राणां यथो एतत्सोमपानेनैनं स्तौतीत्यस्मिन्नप्येतदुपपद्यते। सोमं पिब मन्दसानो गणश्रिभिरित्यपि निगमो भवति। यथो एतद्द्रविणोदाः पिबतु द्रविणोदस इत्यस्यैव तद्भवति॥ निरु०८.१-२) अनेन निरुक्तेनैवमेव द्रविणोदश्शब्दस्य यथायोग्यं सर्वत्रार्थान्वयो विज्ञेयः।सायणाचार्य्येण द्रविणोदा इति पदं क्विबन्तं साधितं तदप्यत्राशुद्धमेवास्ति। कुतः, निरुक्तकारस्य द्राविणोदसमित्यादिव्याख्यानविरोधात्। स्वरस्तु गतिकारकोपदात्० इति सिद्ध एव॥७॥
भावार्थभाषाः - अत्र श्लेषालङ्कारः। सकलैर्मनुष्यैः सर्वेषु कर्मोपासनाज्ञानकाण्डसाध्येषु यज्ञेषु परमेश्वरः पूज्यः। होमशिल्पादिषु यज्ञेषु भौतिकोऽग्निः सुयोजनीयश्चेति॥७॥
बार पढ़ा गया

माता सविता जोशी

(यह अनुवाद स्वामी दयानन्द सरस्वती जी के आधार पर किया गया है।)
भावार्थभाषाः - या मंत्रात श्लेषालंकार आहे. सर्व माणसांनी सर्व कर्म, उपासना व ज्ञानकांड यज्ञामध्ये परमेश्वराचीच पूजा केली पाहिजे व भौतिक अग्नी होम व शिल्प इत्यादी कामांत चांगल्या प्रकारे संयुक्त करावा. ॥ ७ ॥